________________
१५८]
[हैम-शब्दानुशासास्य कालाद् देये ऋणे । ६ । ३ । ११३ । सप्तम्यन्तात् कालार्थाद देये ऋणेऽयें यथाविहितं प्रत्ययः स्यात् ।
मासिकं ऋणम् ॥ ११३ ॥ कलाप्यश्वत्थ-यवबुसोमाव्यासैषमसोऽकः
।६।३।११४।
एभ्यः
सप्तम्यन्तेभ्यः देये ऋणे अकः स्यात् । कलापकम् , अश्वत्थकम् यवबुसकम् , उमाव्यासकम् । ऐषमकं
=ऋणम् ॥ ११४॥ ग्रीष्माऽवस्समादलम् ।६।३।११५ ।