________________
स्वोपक्ष-लघुवृत्तिः]
काश्विीयः,
___ आरिष्टीयः ॥ ९३॥ ऋश्यादेः कः। ६ । २ । ९४ । चातुरथिको देशनाम्नि कः स्यात् ।
ऋश्यकः, न्यग्रोधकः ॥९॥ वाराहाऽऽदेः कण् । ६।२।९५। चातुरथिको देशनाम्नि कण् स्यात् । वाराहकम् ,
पालाशकम् ॥ ९५॥ कुमुदाऽऽदेरिकः । ६ । २।९६। चातुरथिको देशनाम्नि इकः स्यात् । कुमुदिकम् , इकटिकम् ॥ ९६ ॥