________________
स्वोपक्ष लघुवृत्ति: ।
भवति, न भवति च इति विधि-निषेधौ अतिदिश्यते । ईहाश्चक्रे, बिभराञ्चकार । कृग इति किम् ?
ईक्षामास ॥ ७५ ॥ गन्धना-ऽवक्षेप-सेवासाहस-प्रतियत्न
प्रकथनो-पयोगे । ३ । ३ । ७६ । एतदर्थात् कृगः
कर्त्तरि
आत्मनेपदं स्यात् , गन्धनं द्रोहेण परदोषोद्घाटनम् उत्कुरुते ।
अवक्षेपः=कुत्सनम्-दुर्वृत्तान् अवकुरुते ।। सेवा महामात्रानुपकुरुते । साहसं अविमृश्य प्रवृत्तिः
परदारान् प्रकुरुते ।