________________
५४६ )
[ हैम-शब्दानुशासनस्य
भावि कृत्यमासीत् ,
__गोमान् आसीत् ॥ ४१ ॥ भृशाऽऽभोक्ष्ण्ये हि-स्वौ यथाविधि त. ध्वमौ च तद्युष्मदि । ५। ४ । ४२ । भृशा-ऽऽभीक्ष्ण्ये सर्वकाले अर्थे वर्तमानाद्
धातोः सर्वविभक्तिवचनविषये हि-स्वौ स्याताम् ,
यथाविधिधातोः संबन्धे, __ यत एव धातोः
यस्मिन्नेव कारके हि-स्वौ तस्यैव धातोः तत्कारकविशिष्टस्यैव सम्बन्धे
अनुप्रयोगे सति, तथा पञ्चम्या एव त-ध्वमौ,