________________
स्वोपश - लघुवृत्ति: ]
सप्तमी कृत्य - पञ्चम्यौ च स्युः । ऊर्ध्वं मुहर्त्तात्कटं कुर्यात् भवान्, भवता कटः कार्यः,
कटं करोतु भवान्, भवान् हि प्रेषितोऽनुज्ञातः, भवतोsवसरः कटकरणे ||३०||
स्मे पञ्चमी । ५ । ४ । ३१ ।
स्मे उपपदे
ग्रैषादिषु गम्येषु
[ ५४१
ऊर्ध्वमौहूर्तिकार्थाद् धातोः
पञ्चमी स्यात् । ऊर्ध्वं मुहूर्त्ताद्
भवान् कटं करोतु स्म,
भवान् हि प्रेषितोऽनुज्ञातः,
भवतोsवसरः कटकरणे ॥ ३१ ॥
अधीष्टौ । ५ । ४ । ३२ । स्मे उपपदे
अध्येषणायां गम्याय