________________
५२६ ] . । हैम-शब्दानुशासनस्य य एष्यन् अर्थः
तवृत्तेः धातोः अनद्यतनविहितः प्रत्ययो
वा न स्यात् । आगामिनो वत्सरस्य आग्रहायण्याः परस्ताद्
द्विः सूत्रं अध्येष्यामहे-अध्येतास्महे वा ॥८॥ सप्तम्यर्थे क्रियाऽतिपत्तौ क्रियाऽति-पत्तिः
। ५ । ४ । ९ । सप्तम्या अर्थः-निमित्त हेतु-फलकथनादिसामग्री
कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिवृत्ती
__क्रियातिपत्तौ सत्यां एष्यदर्थाद् धातोः सप्तम्यर्थे
क्रियाऽतिपत्तिः स्यात् । दक्षिणेन चेद् अयास्यत्
___ न शकटं पर्याभविष्यत् ॥ ९ ॥ भूते । ५ । ४ । १० ।