________________
५२४ |
[ हम-शब्दानुशासनस्य
अनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वा गन्तव्यः आ शत्रुञ्जयात्
तस्य यह अवरं वलभ्याः तत्र द्विः ओदनं भोक्ष्यामहे ।
एष्यति इति किम् ? योऽयमध्वा अतिक्रान्तः
आ शत्रुञ्जयात्,
तस्य यत् अवरं वलभ्याः
तत्र युक्ताद् द्विः अध्यैमहि । अवधौ इति किम् ? योsयमध्वा निरवधिका गन्तव्यः,
तस्य यत् अवरं वलभ्या
तत्र द्विरोदनं भोक्तास्महे ।
अवभाग इति किम् ? योऽयमध्वा गन्तव्यः
आ शत्रुञ्जयात्
"
तस्य यत् परं वलभ्याः
तत्र द्विः ओदनं भोक्तास्महे ॥ ६ ॥ कालस्याऽनहोरात्राणाम् । ५ । ४ । ७ ।