________________
स्वोपक्ष-लघुवृत्ति: । अ-कूजन इति किम् ?
संक्रीडन्ति अनांसि ॥ ३३॥ अन्वा-ङ्-परेः । ३ । ३ । ३४ । एभ्यः परात् क्रीडतेः कर्त्तरि
आत्मनेपदं स्यात् । - अनुक्रीडते, आक्रीडते,
परिक्रीडते ॥ ३४ ॥ शप उपलम्भने । ३ । ३ । ३५ । उपलम्भनं-प्रकाशनं शपथो वा, तदर्थात् शपतेः कर्त्तरि आत्मनेपदं स्यात् ।
मैत्राय अपते ।