________________
स्वोपन-लघुवृत्तिः। सञ्चारी, अतिचारी, अपचारी,
अभिचारी, व्यभिचारी ॥६॥ सम-नु-व्य-वाद् रुधः ।५।२।६३ । एभ्यः परात् शीलादि-सदाद्
रुधः - घिनण् स्यात् । संरोधी, अनुरोधी,
विरोधी, अवरोधी ॥६३ ॥ वेर्दहः । ५। २ । ६४ । विपूर्वात्
शीलादि-सदर्थाद्
घिनण् स्यात् ।
विदाही ॥ ६४ ॥ परेदेवि-मुहश्च । ५। २ । ६५ ।