________________
mam
- e -
m
- -
-
स्वोपन-लघुवृत्तिः ] न चेद् यज्ञे यत् तत्पात्रं तद्विषयो युज्यर्थः स्यात् ।
उद्युङ्क्ते, उपयुङ्क्ते । उत्-स्वरादिति किम् ?
संयुनक्ति । अ-यज्ञ-तत्पात्र इति किम् ?
द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥२६॥ परि-व्यवात् क्रियः । ३ । ३ । २७ । एभ्यः उपसर्गेभ्यः परात् क्रीणातेः कर्तरि
आत्मनेपदं स्यात् । परिक्रीणीते, विक्रीणीते, अवक्रीणीते । उपसर्गादित्येव ?
उपरिक्रीणाति ॥ २७ ॥ परा-वेर्जेः । ३ । ३ । २८ ।