________________
४००
। हैम-शब्दानुशासनस्य
साधौ । ५ ! १ । १५५ । नाम्नः परात् साध्वर्थात् धातोः
णिन् स्यात् ।
साधुकारी ॥ १५५ ॥ ब्रह्मणो वदः । ५ । १ । १५६ । ब्रह्मणः पराद्
वदः णिन् स्यात् ।
ब्रह्मवादी ॥ १५६ ॥ व्रताऽऽभीक्ष्ण्ये । ५ । १ । १५७ । अनयोः गम्यमानयोः नाम्नः परात् धातोः
णिन् स्यात् ।। स्थण्डिलवर्ती,
क्षीरपायिणः उशीनराः ॥ १५७ ॥ करणाद् यजो भूते । ५।१ । १५८ ।