________________
३२८ ।
[ हैम-शब्दानुशासनस्य
खल-घोः जि-ख्णमोश्च परयोः
न अन्तः स्यात् । दुष्प्रलम्भम् , प्रलम्भः, प्रालम्भि,
प्रलम्भ-प्रलम्भम् । उपसर्गात् इति किम् ? लाभः ॥१०७॥ सु-दुर्यः । ४ । ४ । १०८ । आभ्यां समस्त-व्यस्ताभ्यां
उपसर्गात् पराभ्यां
स्वरात् परः
खल-घोः नोऽन्तः स्यात् । अतिसुलम्भम् , अतिदुर्लम्भम् ।
अतिसुलम्भः, अतिदुर्लम्भः, अतिसुदुर्लभम् , अतिसुदुर्लम्भः ।
उपसर्गात् इत्येव ? सुलभम् ॥१८॥