________________
स्वापश-लघुवृत्ति: ]
स्वरान्तात् उपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति
तः नित्यं स्यात् ।
प्रत्तः, परीत्रिमम् । उपसर्गात् इति किम् ? दधि दत्तम् । स्वरात् इति किम् ? निर्दत्तम् । दः इति किम् ? प्रदाता व्रीहयः ।
ति इति किम् ? प्रदाय |
अधः इति किम् ? निधीतः ||९||
दत् । ४ । ४ । १० ।
| २८१
अ-धः दासंज्ञस्य तादौ किति
दत् स्यात् ।
दत्तः, दत्तिः ।
अ-धः इत्येव ? धीतः ॥ १० ॥ दो-सो-मा-स्थ इः । ४ । ४ । ११ ।