________________
स्वोपक्ष-लघुति ।
[२७५ क्षुत्-तृड्-गद्देऽशनायोदन्य-धनायम्
। ४ । ४ । ११३ । एषु अर्थेषु यथासंख्यं अशनादयः क्यन्नता:
निपात्यन्ते ।
अशनायति
उदन्यति,
धनायति । क्षुदादौ इति किम् ? अशनीयति, उदकीयति,
धनीयति दातुम् ॥११३॥ वृषाऽवाद् मैथुने स्सोऽन्तः ।४।३।११४। आभ्यां मैथुनार्थाभ्यां
क्यनि
सोऽन्तः स्यात् । वृषस्यति गौः,
अश्वस्यति वडवा ।