________________
स्वोपज्ञ - लघुवृत्ति: ]
[ ૨૪૨
व्यञ्जनानामनिटि । ४ । ३ । ४५ ।
व्यञ्जनान्तस्य धातोः परस्मैपदविषये अनिटि सिचि
समानस्य
वृद्धिः स्यात् । अराङ्क्षीत् ।
समानस्य इत्येव ? उदवोढाम् ।
अनिटि इति किम् ? अतक्षीत् ||४५||
वोर्णुगः सेटि । ४ । ३ । ४६ ।
ऊर्णोः
सेटि सिचि
परस्मैपदे
वृद्धिर्वा स्यात् ।
प्रौण्णवीत् - प्रोष्णवीत् - प्रोणुवीत् ॥ ४६ ॥
व्यञ्जनादेवपान्त्यस्याऽतः । ४।३।४७ ।
व्यञ्जनादेः धातोः
उपान्त्यस्य अतः