________________
२०६ ]
[ हैम-शब्दानुशासनस्य अ-वात इति किम् ?
निर्वाते वातः ॥ ७९ ॥ अनुपसर्गाः क्षीबो-दलाघ-कृश-परिकृशफुल्लो-त्फुल्ल-संफुटलाः। ४ । २ । ८० । अनुपसर्गाः क्तान्ताः एते
निपात्यन्ते । क्षीवः, उल्लाघः - कृशः, परिकृशः,
फुल्लः, उत्फुल्लः, संफुल्लः । अनुपसर्गा इति किम् ?
प्रक्षीवितः ॥ ८० ॥ भित्तं शकलम् । ४ । २ । ८१ । भिदेः परस्य क्तस्य
___नत्वाभावो निपात्यते, शकलपर्यायश्चेत् ।
भित्तं शकलमित्यर्थः । शकलमिति किम् ? भिन्नम् ॥ ८१ ॥