________________
स्वोपज्ञ-लघुवृत्तिः ।
अमोऽकम्य-मि-चमः । ४ । २ । २६ । कम्य-मि-चमिवर्जस्य
अमन्तस्य ।
हस्वः स्यात् , जि-णम्परे तु णौ
, वा दीर्घः । रमयति, अरामि-अरमि।
रामरामम् -रमरमम् ।। अ-कम्य-मि-चम इति किम् ? कामयते, अकामि, कामंकामम् ,
आमयति, आचामयति ॥ २६ ॥ पर्यपात् स्खदः । ४ । २ । २७ । आभ्यामेव परस्य
स्खदेः ___णौ हस्वः स्यात् , जि-णम्परे तु
वा दीर्घः । .