________________
१३४ ]
[ हैम-शब्दानुशासन स्थ
वञ्च स्रंस-ध्वंस - भ्रंस-कस - पत-पदस्कन्दोऽन्तो नीः ४ । १ । ५० ।
एषां यङन्तानां द्वित्वे पूर्वस्य
नीः अन्तः स्यात् ।
वनीवच्यते, सनीस्रस्यते, दनीध्वस्यते, वनीभ्रस्यते,
चनीकस्यते, पनीपत्यते,
पनीपद्यते चनीस्कद्यते ॥५०॥
मुरतोऽनुनासिकस्य । ४ । १ । ५१ ।
आत् परो यः अनुनासिकः,
द्वित्वे पूर्वस्य
तदन्तस्य यङन्तस्य
1
मुः अन्तः स्यात् । बम्भण्यते ।
अतः इति किम् ? तिम्यते ।