________________
१३२ ]
[हैम-शब्दानुशासनस्य
पूर्वस्य शिंटः
तत्सम्बन्धिनि एव अघोषे लुक् स्यात् ।
चुश्च्योत । अ-घोष इति किम् ?
सस्नौ ॥ ४५ ॥ क-ङश्च- । ४।१। ४६ । द्वित्वे
पूर्वयोः क-डोः यथासङ्ख्यं च-औ स्याताम् ।
चकार, जुङवे ॥ ४६ ॥ न कवतेर्यङः । ४ । १ । ४७ । यडन्तस्य कवतेः
द्वित्वे सति पूर्वस्य कः चः न स्यात् । कोकूयते खरः ।