________________
१००)
[हैम-शब्दानुशासनस्य
-
स्तम्नाति-स्तम्नोति ।
स्तुभ्नाति-स्तुभ्नोति । स्कम्नाति-स्कभ्नोति ।
- स्कुम्नाति-स्कुम्नोति । स्कुनाति-स्कुनोति ॥ ७८ ॥ क्रयादेः। ३ । ४ । ७९ । क्रयादेः
कविहिते शिति श्ना स्यात् ।
क्रीणाति, प्रीणाति ॥ ७९ ॥ व्यञ्जनात् नाहेरानः। ३ । ४ । ८० । व्यञ्जनात् परस्य
नायुक्तस्य हेः आनः स्यात् ।
पुषाण, मुषाण । व्यञ्जनात् इति किम् ? लुनीहि ॥ ८० ॥ तुदादेः शः । ३ । ४ । ८१ ।