________________
स्वोपन-लघुवृत्तिः ]
[९९ अक्षः
कर्तृविहिते शिति इनुर्वा स्यात् ।
अक्ष्णोति-अक्षति ॥ ७६ ॥ तक्षः स्वार्थे वा । ३ । ४ । ७७ । स्वार्थस्तनुत्वं
तवृत्तेस्तक्षेः कर्तविहिते शिति
इनुर्वा स्यात् । तक्ष्णोति-तक्षति । स्वार्थ इति किम् ?
संतक्षति शिष्यम् ॥ ७७ ॥ स्तम्भू-स्तम्भू-स्कम्भू-स्कुम्भू-स्कोःश्ना
च । ३ । ४ । ७८ । स्तम्भ्वादेः
सौत्राद् धातो स्कुङ्गश्च कर्तृविहिते शिति
श्ना ३नुश्च स्यात् ।