________________
स्वोपक्ष-लघुवृत्तिः ।
[७७
पापवृत्तिभ्यः
क्रमणेऽर्थे
क्यङ् स्यात् । कष्टायते, कक्षायते, कृच्छायते,
सत्रायते गहनायते। चतुर्थीति किम् ?
रिपुः कष्टं क्रामति । पाप इति किम् ?
___ कष्टाय तपसे क्रामति ॥३१॥ रोमन्थाद व्याप्याद् उच्चर्वणे।३।४।३२। अभ्यवहृतं द्रव्यं-रोमन्थः,
___ उद्गीय चर्वणं उच्चर्वणम् , अस्मिन्नर्थे कर्मणः
क्यङ वा स्यात् । रोमन्थायते गौः। उच्चर्वण इति किम् ?
कीटो रोमन्थं वर्त्तयति ॥३२॥