________________
-
स्वीपक्ष-लघुवृत्तिः ।
अन्तस्य च सो वा लुक।
__पयायते-पयस्यते ॥२७॥ ओजोऽप्सरसः । ३। ४ । २८ । आभ्यां कर्तुः
उपमानाभ्यां आचारे - क्यङ् वा स्यात् ,
सश्च लुक् । ओजायते, अप्सरायते ॥ २८ ॥ व्यर्थे भृशादेः स्तोः । ३ । ४ । ३९ । भृशादेः कर्तुः
व्यर्थ
क्यङ् वा स्यात् , यथासम्भवं तालुक् च।
भृशायते, उन्मनायते, वेहायते । कर्तुःइत्येव ?
अभृशं भृशं करोति ।