________________
स्वोपन-लघुवृत्तिः ]
| इदंकाम्यति । द्वितीयाया इति किम् ?
इष्टः पुत्रः ॥ २२ ॥ अ-माऽव्ययात् क्यन् च । ३।४ । ३३ । मान्ता-व्ययाभ्यामन्यस्माद् द्वितीयान्तात्
इच्छायां
क्यन् काम्यश्च वा स्यात् । पुत्रीयति, पुत्रकाम्यति । अ-माऽव्ययादिति किम् ?
इदमिच्छति,
___ स्वरिच्छति ॥ २३ ॥ आधाराच्चोपमानाद् आचारे ।३४॥२४॥ अ-माऽव्ययात् उपमानाद्, द्वितीयान्तात् आधारात् च
आचारार्थ क्यन् वा स्यात् । पुत्रीयति च्छात्रम् , . प्रासादीयति कुट्याम् ॥ २४ ॥