________________
स्वोपक्षलघुवृत्तिः ]
[५७ प्रत्यये च । १।३।२। पदान्तस्थस्य तृतीयस्य प्रत्यये पश्चमे परे अनुनासिको नित्यं स्यात् ।
__ वाङ्मयम् , षण्णाम् । च उत्तरत्र वा अनुवृत्त्यर्थः ॥२॥ ततो हश्चतुर्थः । १ । ३।३। पदान्तस्थात् ततः तृतीयात् परस्य हस्य पूर्वसवर्गश्चतुर्थों
वा स्यात् । वाग्धीनः, वाग्हीनः ।
ककुब्भासः, ककुब्-हासः ॥ ३॥ प्रथमादधुटि शश्छः । १।३।४। पदान्तस्थात प्रथमातू परस्य शस्य अधुटि परे
छो वा स्यात् ।
-
- - -
-