________________
योप-लघुवृत्ति:
[१८१
शुनः परस्याः षष्ठया: शेपादौ
उत्तरपदे संज्ञायां
लुव न स्यात् । शुनाशेपः, शुनःपुच्छः,
शुनोलङगूलकः ॥ ३५ ॥ वाचस्पति-वास्तोष्यति-दिवस्पतिदिवोदासम् । ३ । २ । ३६ । एते समासाः षष्ठयलुपि निपात्यन्ते
नाम्नि । वाचस्पतिः, वास्तोष्पतिः, दिवस्पतिः,
दिवोदासः ॥ ३६॥