________________
४६२ ]
नक्षत्रर्तुवाचि तुल्यस्वरं
[ हैम-शब्दानुशासनस्य
द्वन्द्वेऽनुपूर्वं प्राक् स्यात् । अश्विनी - भरणी कृत्तिकाः, हेमन्त - शिशिर - वसन्ताः,
तुल्यस्वर इति किम् ? आर्द्रा - मृगशिरसी,
ग्रीष्म - वसन्ता ॥ १६२ ॥
संख्या समासे ।
समासमात्रे संख्यावाचि
। ३ । १ । १६३
।
अनुपूर्वं
प्राक् स्यात् । द्वित्राः द्विशती,
एकादशः || १६३ ॥
इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ तृतीयस्याध्यायस्य
प्रथमः पादः समाप्तः
-