________________
स्वोप-लघुवृत्ति:
४०३ नञ् । ३ । १ । ५१ । नञ् नाम नाम्ना
समासस्तत्पुरुषः स्यात् । अ-गौः, न सूर्य पश्यन्ति
असूर्यम्पश्या राजदाराः ॥ ५१ ॥ पूर्वा-परा-धरो-त्तरम-भिन्ननाशिना
।३।१। ५२ । पूर्वादयोंऽशार्था
अंशवद्वाचिना
समासस्तत्पुरुषः स्यात् । न चेत् सोंऽशी भिन्नः । पूर्वकायः, अपरकायः,
उत्तरकायः, अधरकायः । अभिन्नेनेति किम् ?
पूर्व छात्राणामामन्त्रयस्व । अंशनेति किम् ? . पूर्वो नाभेः कायस्य ॥ ५२ ॥