________________
३९४
[हैम-शब्दानुशासनस्य
सङ्ख्यादीति किम् ?
पाशकेन न तथावृत्तम् । द्यूत इति किम् ?
रथस्याक्षेण न तथावृत्तम् ॥ ३८॥ विभक्ति-समीप-समृद्धिव्यूद्धयर्थाभावाऽत्ययाऽसंप्रतिपश्चात्-क्रम-ख्याति-युगपत्सहक्-सम्पत्-साकल्या-न्तेऽव्ययम् ।३ । १ । ३९ । एषु अर्थेषु वर्तमान अव्ययं
नाम्ना सह पूर्वपदार्थे वाच्ये
नित्यं समासोऽव्ययीभावः स्यात् । विभक्तिः
विभक्त्यर्थः ।