________________
३८४ ]
[ हैम-शब्दानुशासनस्यः
अव्ययम् । ३ । १ । २१ ।
अव्ययं नाम
संख्यानाम्ना एकार्थ्य
समस्यते,
द्वितीयाद्यन्यार्थे संख्येये वाच्ये सच बहुव्रीहिः ।
उपदशाः ।। २१
एकार्थे चानेकं च । ३ । १ । ५२ ।
एकमनेकं च एकार्थ = समानाधिकरणमव्ययं च,
नाम्ना द्वितीयाद्यन्तान्यपदस्यार्थे समस्यते,
सच बहुव्रीहिः ।
आरूढवानरो वृक्षः सुसूक्ष्मजटकेशः,
उच्चैर्मुखः ॥ २२ ॥