________________
३७८
[ हैम-शब्दानुशासनस्य
अनत्याधान% अनुपश्लेषः अनाश्चर्य वा,
तवृत्तय एते ऽव्ययाः
कुयोगे
गतयो वा स्युः । मध्येकृत्य मध्येकृत्वा । पदेकृत्य-पदेकृत्वा । निवचनेकृत्य-निवचनेकृत्वा । __ मनसिकृत्य-मनसिकृता । उरसिकृत्य-उरसिकृत्वा ॥११॥ उपाजेऽन्वाजे । ३।१ । १२ । एतावव्ययौ
दुर्बलस्य भग्नस्य वा बलाधानार्थों कृग्योगे
गती वा स्याताम् ।
उपाजेकृत्य-उपानेकृत्वा । अन्वाजेकृत्य-अन्वाजेकृत्वा ॥१२॥ स्वाम्येऽधिः । ३ । १ । १३ ।