________________
स्वोपश- लघुवृत्ति: ]
२९३
गिरि - नद्यादीनाम् । २ । ३ । ६८ ।
एषां
नो णू
वा स्यात ।
गिरिणदी - गिरिनदी | तुर्यमाणः - तुर्यमानः ॥ ६८ ॥ पानस्य भावकरणे । २ । ३ । ६९ । पूर्वपदस्थाद् रादेः परस्य भावकरणार्थस्य पानस्य नो णू वा स्यात् ।
क्षीरपाणं - क्षीरपानं स्यात । कषायपाणः - कषायपानः कंसः ॥ ६९ ॥
देशे । २ । ३ । ७० ।
पूर्वपदस्थाद् रादेः परस्य देशविषयस्य पानस्य नो ण् नित्यं स्यात । क्षीरपाणा उशीनराः ।
देश इति किम् ?
क्षीरपाना गोदुहः ॥ ७० ॥