________________
२४० ]
[ हैम-शब्दानुशासनस्य
अ-कमेरुकस्य । २ । २ । ९३ । कमेन्यस्य उकप्रत्ययान्तस्य
कर्मणि षष्ठी न स्यात् । । भोगानभिलाषुकः । अ-कमेरिति किम् ?
दास्याः कामुकः ॥ ९३॥ एष्यहणेनः । २।२।९४ । एष्यत्यर्थे ऋणे च विहितस्येनः . .
कर्मणि षष्ठी न स्यात् ग्रामं गमी-आगाभी वा, शतं दायी। एष्यदृणेति किम् ?
साधु दायी वित्तस्य ॥ १४ ॥ सप्तम्यधिकरणे ।२।२।९५। अधिकरणे एक-द्वि-बही यथासंख्य