________________
२२२ ]
हैम-शब्दानुशासनस्य
तुमोऽर्थे भाववचनात् । २ । २ । ६१ । क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते, तस्यार्थे ये भाववाचिनो घञादयः,
तदन्तात्
स्वार्थे
चतुर्थी स्यात् । पाकाय - इज्यायै वा व्रजति, तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति किम् ?
पक्ष्यतीति पाचकस्य व्रज्या ॥ ६१ ॥ trissa | २ । २ । ६२ ।
यस्यार्थो गम्यते, न चासौ प्रयुज्यते
स गम्यः ।
गम्यस्य तुमो व्याप्ये वर्त्तमानात चतुर्थी स्यात् । एधेभ्यः फलेभ्यो वा व्रजति । गम्यस्येति किम् ?
धानाह याति ॥ ६२ ॥