________________
स्वोपक्ष-लघुवृत्तिः ]
यथासंख्यं __एक-द्वि-बहौ स्यात् । मासेन मासाभ्यां मासैर्वा __ आवश्यकमधीतम् । क्रोशेन क्रोशाभ्यां क्रोशैर्वा
प्राभृतमधीतम् । सिद्धौ इति किम् ? मासमधीत आचारी, नाऽनेन गृहीतः ॥४३॥
हेतु-कर्तृ-करणेस्थम्भूतलक्षणे ।२।२।४४ । फलसाधनयोग्यो-हेतुः । किञ्चित्प्रकारं आपन्नस्य
चिह्न-इत्थम्भूतलक्षणं । हेत्वादिवृत्तेः नाम्नः
तृतीया स्यात् । धनेन कुलम् । चैत्रेण कृतम् ।
दात्रेण लुनाति । अपि त्वं कमण्डलुना च्छात्रमद्राक्षी ? ॥४४॥