________________
१२८ ]
[ हैम-शब्दानुशासनस्य ऋतो रः स्वरेऽनि ।२।१।२। तिसृ-चतसृस्थस्य ऋतः - स्वरादौ स्यादौ परे
रः स्यात् __अननिम्नविषयात् अन्यत्र । तिस्रः, चतस्रः,
प्रियतिस्रो, प्रियचतस्रो, स्वर इति किम् ? तिसृभिः, चतसृभिः । अ-नि इति किम् ?
तिसृणाम्, चतसृणाम् ॥ २॥ जराया जरस् वा । २।१।३। स्वरादौ स्यादौ परे
जराया जरस् वा स्यात् । जरसौ जरसः ।
जरे, जराः । ___ अतिजरसौ-अतिजरौ । अतिजरसम-अतिजरम कुलम् ॥३॥