________________
१०८
[ हैम शब्दानुशासनस्य
-
-
अष्टामिः, अष्टभिः ।
प्रियाष्टाः, प्रियाष्टा ॥५२॥ अष्ट और्जस्-शसो । १।४। ५३ । अष्टनः कृतात्वस्य जम-शसोरौः स्यात् ।
अष्टौ, अष्टौ ॥५३॥ डतिष्णः संख्याया लुप् । १।४।५४ । डति-प-नान्तानां संख्यानां जस्शसो
लुप् स्यात् । कति, कति । षट्, षट् ।
पञ्च, पञ्च ॥५४॥ नपुंसकस्य शिः । १।४। ५५ । नपुंसकस्य जस्-शसोः शिः स्यात् ।
कुण्डानि, पयांसि ॥५५॥