________________
[ हैम-शब्दानुशासनस्य मातुर्मातः पुत्रेऽहे
सिनाऽऽमन्ये । १।४।४०। मातुः आमन्त्र्ये पुत्रे वर्तमानस्य सिना सह
मातः स्यात् । अहें-प्रशंसायाम् । हे गार्गीमात ! ।
पुत्र इति किम् ? हे मातः ! हे गार्गीमातृके वत्से !। अर्ह इति किम् ?
अरे ! गार्गीमातृक ! ॥ ४०॥ हस्वस्य गुणः । १।४। ४१ । आमन्त्र्यार्थवृत्तेः हस्वान्तस्य सिना सह गुणः स्यात् ।
हे पितः !, हे मुने ! ॥४॥