________________
स्वोपज्ञ-लघुवृत्ति: ]
[७७ व्यत्यये लुग् वा । १ । ३ । ५६ । शिटः परोऽघोष इति व्यत्ययः, तस्मिन् सति पदान्तस्थस्य रस्य
लुग वा स्यात् । चक्षुश्च्योतति,
चक्षुः श्च्योतति चक्षु श्च्योतति ॥५६॥ अ-रोः सुपि रः । १।३ । ५७ । रोः अन्यस्य रस्य सुपि
र एव स्यात् । गीर्षु, धूर्ष
अ-रोरिति किम् ? पयस्सु ॥ ५७ ॥