SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका 1 नित्यद्रव्यवृत्तयो ऽन्त्या विशेषाः ॥ समानजातीयरूपरसादिमत्परमाण्वादीनां परस्परभेदकं विना भेदनिर्णयासम्भवाद्भेदकत्वेन विशेषा अनुमीयन्ते । अनित्यद्रव्येषु स्वाश्रयेणैव भेदसम्भवात् । ते ऽत्र नेष्टा प्रमाणाभावात् । नित्यद्रव्यवृत्तित्वं तेषां व्यावर्त्तकान्तराभावे सत्यन्ते व्यावर्त्तकत्वेन स्वीक्रियमाणत्वादन्त्यचं चेति लक्षणसमन्वयः । यथा प्रजारक्षकत्वेन महाराज आवश्यकः स च स्वत एव स्वरक्षणसमर्थः । एवं विशेषाः स्वत एव व्यावृत्ता इति नानवस्था | शब्दसमवायिकारणतावच्छेदकतया चाकाशे तत्सिद्धिः । अष्टद्रव्यातिरिक्तद्रव्यत्वादेराकाशमात्रवृत्तित्वेपि गौरवेण कारणतावच्छेदकत्वासम्भवेन द्रव्यत्वादिजातिवत्तस्यावश्यकत्वादिति दिक् ॥ अयुतसिद्धानां सम्बन्धः समवायः ॥ . विशेषणतान्यसम्बन्धेन यावदुभयसत्त्वं ययोराश्रयाश्रायेभावस्तावयुतसिद्धौ । यथा गुणगुणिनौ । पटोत्पत्तेः पूर्व तन्तुसत्वादव्याप्तेर्वारणायोभयेति । वायुरूपाभावकालघटादेरयुतसिद्धत्ववारणाय विशेषणतान्येति । अभावस्य न विशेषणतैव सम्बन्ध इत्युक्तम् । कालो ऽपि विशेषणतयैव जगदाधार इति स्पष्टमन्यत्र । प्राञ्चस्तु विनाशक्षणपर्यन्तं ययोराश्रयाश्रयिभावस्तावयुतसिद्धौ । तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ, ययोर्द्वयोरनश्यदेकमपराश्रितमेवावतिष्ठते । ते चावयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति । तन्तुपटादयो ऽवयवावयविनः । आ. श्रयनाशजन्यघटादिनाशस्थळे नाशसमये घटादेरनाश्रितत्वाभ्युपगमो विनाशक्षणपर्यन्तमिति । तन्न । नित्यगुणतदाश्रययोरा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy