SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका । , स्त्वन्यथाप्याहुः । यथान्यत्रक्लृप्तनियतपूर्ववर्तिन एव कार्यस म्भवे तत्सहभूतत्वं यथा रासभादेः । अन्यं प्रति पूर्ववसिखेहोते एवान्यं प्रति पूर्ववर्त्तितया गृह्यमाणत्वं च । यथाकाशकुलापित्रादेः । एवं भावत्वाभावत्वेन्द्रियत्वविषयत्वादिकमपि । तत्र समवायैकार्थसमवायान्यतरसम्बन्धेन सत्तावत्त्वं भावत्वम् । उक्तसम्बन्धेन सत्ताऽभाव एवाभावत्वम् । ज्ञानजनकमनः संयोगाश्रयातीन्द्रियत्वमिन्द्रियत्वम् । इन्द्रियमनोयोगस्य ज्ञानजनकत्वालक्षणसमन्वयः । आत्ममनोयोगस्य ज्ञानहेतुत्वादात्मन्यतिव्याशिवारणायान्तीन्द्रियमिति । विषयताख्यसम्बन्धेन साक्षात्कारवत्वं विषयत्वम् । शरीरादौ तत्सत्वेपि न दोषः । उपधेयसङ्करेपि उपाधेरसङ्करत्वात् । एवं कारणत्वावान्तरं समवायिकारणत्वमसमवायिकारणत्वं निमित्तकारणत्वं च । समवायेन कार्याधारत्वमाद्यम् । तच्च द्रव्यमात्रवृत्ति, द्रव्यत्वस्यैव कार्यसमर्वायिकारणतावच्छेदकत्वात् । समवायैकार्थसमवाय प्रत्यास"त्या कारणत्वमसमवायिकारणत्वम् । एवं रूपरसगन्धस्पर्श स्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मशब्देषु विशेषगुणत्वम् । तच्च स्वाश्रयव्यादृश्यौपायिकावान्तर सामान्यवन्त्वम् । पृथिवी जलादिभ्यो भिद्यते पाकजरूपात् । तेज इतरेभ्यो भिद्यते शुक्लभाखररूपात् उष्णस्पर्शाद्वा इत्यादि, स्वाश्रयस्य व्यावर्तकतावच्छेदकत्वेनोपयुक्तमवान्तरजातिमत्वमस्तीति लक्षणसमन्वयः । एवं निरुच्यमानं व्याप्त्याद्यपीहोदाहरणम् । नन्वेवं पृथुबुध्नादराकारवत्वगन्धवत्त्वगुणाश्रयत्त्वसास्नादिमत्त्वाद्युपाधिभिरेव घटः पृथिवी द्रव्यं गौरित्यादिप्रतीत्युपपत्ते स्वादिजातौ किं मानमिति चेत् । उच्यते । कारणत्वकार्यत्वादयस्तावत्सावच्छिन्नास्तथा च चक्रकार्यतावच्छेदकतया गं
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy