SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ५० पदार्थदीपिका। कर्मणा संयोगे जननीये स्वोत्तरमुत्पद्यमानस्य विभागस्य वि. भागप्रतिबन्धकीभूतपूर्वसंयोगध्वंसस्य चापेक्षायामपि न क्षतिः। विभागस्य प्रतिबन्धकाभावसम्पादकत्वेनान्यथासिद्धत्वेनाजनकत्वात् संयोगधंसस्य भावत्वाभावात् । न चासमवायिकारणादेश्च पूर्वोत्पन्नास्यापेक्षितत्वेन दोषः । संयोगजसंयोगे पू. संयोगस्य विभागजविभागे पूर्व विभागस्य तथा प्रत्येकं जनकत्वसत्त्वात्संयोगविभागेत्युभयमुपात्तम् । उभयजनकत्वं कर्मण एव न संयोगादेरिति नातिव्याप्तिः । तच्चोत्क्षेपणापक्षेपणाकु चनप्रसारणगमन भेदात् पञ्चधा । भूमणादयस्तु गमनभेदा एव । तच्च मूर्तमात्रवृत्ति मूर्तत्वेनैव तत्कारणत्वात् । अत एव कर्मसमवायिकारणावच्छेदकतया मूर्त्तत्वं जातिरेवेति नव्याः । इयचावच्छिन्नमाणवत्त्वमुमाधिरेवेति प्राञ्चः । तच्च संयोगवेगप्रयत्नगुरुत्वद्वत्वस्थितिस्थापकाऽसमवायिकारणकम् ।धनुःसंयो. गादिषौ प्रथम कर्म । ततो वेगजं कर्म द्वितीयम् । माणिगमनं तृतीयम् । पतनं चतुर्थम् । स्पन्दनं पञ्चमम् । पर्णादौ विगुण्ठिते यथावस्थानहेतुः षष्ठम् । तत् स्वजन्यसंयोगनाश्यम् । अत एव क्षणचतुष्टयस्थायि व्याप्यवृत्त्येवेति प्रपञ्चितमन्यत्र ॥ , नित्यमेकमने कसमवेतं सामान्यम् ।। ... . यथा घटस्वादिः । घटत्वं नित्यमेकमनेकघटेषु समवेतं चेति लक्षणसमन्वयः । समानानां भावः सामान्यम् । अनेकानुगतो धर्म इति यावत् । शब्दवत्वादिकं च समवायेन शब्दाद्येवेति न सामान्यान्तरम् । तद् द्विविधं जातिरुपाधिश्च । तत्र जातिः समवायनव वर्तते उपाधिरनेकपदार्थघटितो धर्मः । यथा कारणत्वान्यथासिद्धत्वादिः । अन्यथासिद्धत्वं चावश्यकल्यमानपूर्ववर्तिना कार्यसम्भव तत्सहभवत्वम्। निष्कृष्टं प्रागुक्तम् । पाञ्च
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy