________________
पदार्थदीपिका। पदैरेवावधार्यते' इति । अन्ये तु सर्वेषां पदानां प्रथम प्रत्यक्षज्ञानात् सर्वपदानां समूहालम्बनं स्मरणं ततस्तदर्थानामपि समूहालम्बनरूपोपस्थितौ सत्याम्पुनः प्रथममेव महावाक्यार्थबोध: खले कपोतन्यायेनेत्याहुः ॥ सोयं शाब्दबोधश्चतुर्विधः । विशेष्ये विशेषणं तत्र विशेषणान्तरमित्येकः । रक्तदण्डवानिति यथा । पुरुषे दण्डः तत्र रूपं विशेषणम् । विशिष्टवैशिटयावगाहन्यः । यथा रक्तदण्डवानित्यनैव रक्तत्वविशिष्ठदण्डस्य वैशिष्टयबोधः । एकत्र द्वयमिति न्यायेनाऽन्यः । दण्डी कुण्डली देवदत्त इति यथा। एकविशेषणविशिष्टे विशेषणान्तरवै. शिष्टयावगाह्यपरः । खड्गी शूर इति यथेति । विस्तरस्तु ग्रन्थान्तरादवधेयः ॥ .. अर्थापयामीत्यनुभवसिद्धजातिविशेषवन्त्यापत्ति, स्तत्करणमर्थापत्तिप्रमाणम् । तच्चानुपपत्तिज्ञानम् । तथाहि । देवदत्ते पीनत्वं दिवा भोजनामावं च जानतो रात्रिभोजनज्ञानं जायते । तन्न प्रत्यक्षात्, सत्रिकर्षायभावेनानुपलम्भात् । नानुमानात, त. स्यासम्भवात् । अयं रात्रिभोजी पीनत्वादित्यस्य दिवामात्रभु.
जानेपि व्यभिचारित्वात् । दिवा अभुजानत्वे सति पीनत्वादित्यत्र दृष्टान्ताभावेन व्याप्त्यऽग्रहादनुमित्ययोगात् । तस्मादिवा ऽभुजानस्य पीनत्वान्यथानुपपत्या रात्रिभोजनज्ञानं जायते । सेयमापत्तिरिति प्राभाकराः ॥
देवदत्तो रात्रिभोजी दिवा अभुजानत्वे सति पीनत्वात् । यत्र रात्रिभोजनाभावस्तत्र दिवा अभुजानत्वे सति पीनत्वाभाव इति व्यतिरोकिणैच निर्वाहाव, न पृथगपत्तिः प्रमाणमिति वैशेषिकनैयायिकादयः॥
अनुपलब्धं जानामीत्यनुभवसिद्धजातिविशेषवत्यनुपल