________________
३२
पदार्थदीपिका ।
शनिकास्तु अनुमितिरूपाः लक्षणया शब्दाद्वा ते बोधाः सम्भवन्ति व्यञ्जनाख्यवृत्त्यन्तरकल्पनां न सहन्ते । नन्वेवमपि भापाशब्देभ्यः कथं बोधः तत्र शक्तिलक्षणयोरभावादिति चेन । तैः संस्कृतस्मरणं ततो बोध इत्यभ्युपगमात् इति के चित् । संस्कृतकथामप्यविदुषां बोधानैवं, किं तु तेष्वेव शक्तिभ्रमाद्बोध इति नव्याः । संस्कृतवद्भाषाशब्दा वाचका एवेति वैयाकरणमतं तु भूषणे ऽस्माभिः प्रपश्चितम् । एवं च भाषाव्यावृत्तं वृत्तिमत्त्वमेव साधुत्वमिति मीमांसकादिमतम् । अर्थविशेषे व्याकरणव्युत्पाद्यत्वं तदिति तु नैयायिकाः । साघूनेन प्रयुञ्जीतेति वचनसिद्धं पुण्यजनकत्वं तदिति वैयाकरणा इत्यलं पल्लवेन । नन्वेवमपि पदज्ञानमेव न सम्भवति वर्णसमूहः पदम् । वर्णाश्च क्रमिकाद्विलक्षणाश्च । तथा च द्वितीवर्णोच्चारणसमये पूर्वो नष्ट इति कथं समुदायज्ञानय् । यत्त प्रत्येकं तत्तद्वर्णानुभवोत्तरमन्ते समूहालम्बनरूपं सकलवर्णस्मरणमेव पदज्ञानमिति । तन्न । एवं सति तत्र क्रमाभावात्सरो रसः जरा राज नदी दीनेत्यादावविशेषप्रसङ्गादिति चेत् । उच्यते । प्रथमं घकारज्ञाने सति तदुत्तरमकारज्ञाने जायमाने स्वाव्यवहितोतरत्वसम्बन्धेन पूर्वो वर्णो विशेषणतया भासते ततटकारे घकारविशिष्टो ऽकारो विशेषणं सोपि पूर्वद्वयविशिष्टः स्त्रोत्तरस्मिन्निति भवति पदज्ञानं तस्मात्पदार्थोपस्थितिस्तत उक्तप्रका रेण पुनः पदान्तरज्ञानं ततस्तदर्थोपस्थितौ तयोः परस्परमन्वयबोधः । पुनः पदान्तरज्ञानं ततः पदार्थोपस्थितौ तस्याप्यन्वयबोध इत्येवं क्रमेण अवान्तरवाक्यार्थज्ञानपूर्वको महाबाक्यार्थबोध इति राजपुरप्रवेशन्यायेन के चिदाहुः । तदुक्तम् । 'यद्यदाकांक्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः