SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। व्यतिरेकिभेदात् । तत्र वृत्तिमदरसन्ताभावाप्रतियोगिसाध्यसाधको हेतुः केवलान्वयी । ययेदं वाच्यं शेयत्वात् द्रव्यवदित्यादि । अनवगतसाध्यसाधनसहचारो हेतुः केवलव्यतिरेकी । यथा आकाशः पृथिव्यादिसर्वेभ्यो भियते शब्दवत्वादिति । अत्र शब्दस्य पृथिव्यादिसाहचर्य न स्वापि हळू किं तु यत्रेतरत्वं तत्र शन्दो नास्तीतीतरभेदाभावशन्दाभावयोरेव सामानाधिकरण्यमवगतमतो व्यतिरेकयोः साध्याभावहेत्वभावयोरेव न्या. प्तिग्रहात् केवलव्यतिरेकी । न च शन्दे हेतौ व्याप्त्यग्रहादितरभेदव्याप्यशब्दवानयमिति परामर्शासम्भवेन कथमत्रानुमितिरिति शंक्यम् । ययोरभावयोर्याप्तिविना बाधकं तयोरपीति तर्कसहकृतमनसा हेतावपि साध्यव्याप्तिग्रहेण परामर्शसम्भवात् । यद्वा साध्याभावव्यापकीभताभावप्रतियोगिहेतुमानयमित्येव व्यतिरेकिणि परामर्शस्ततोनुमिनिरिति । यत्र साध्यहेत्वोस्तदभावयोश्वव्याप्तिगृह्यते सोन्वयव्यतिरेकी । यथा यत्र धूमस्तत्रामिः यत्र व. न्ह्यभावस्तत्र धूमाभाव इति उभयत्र सहचारग्रहाद्भूमसहचरिताः सर्वे वन्हिसहचरिता वन्यभावसहचरिताः सर्वे धूमाभावसहच. रिता इति ग्रहाद्भूमादेः तत् । व्याप्तिबोधनप्रकारस्तु प्राचीनरुक्तः । 'अन्वयेन साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावो ऽन्यथाव्याप्यो व्यापकः साधनात्ययः ॥ व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः स्फुटीभवति तत्त्वत' इति । तत्रान्वयव्यातरोकीण पक्षधर्मत्वं सपक्षे सत्वं वि. पक्षाव्यावृत्तिरबाधित विषयत्वमसत्प्रतिपक्षत्वं चेति पञ्च रूपाणि अपेक्षितानि । केवलव्यतिरेकिणि सपक्षाभावात्तद्भिधानि चस्वारि । केवलान्वयिनि विपक्षाभावाद्विपक्षव्यावृत्तिभिन्नानि च. त्वारि । तत्र पक्षतावान् पक्षः पर्वतादिः । निर्णीतसाध्यहेतुसह
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy