SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। न्देति । न चायं नित्यः परमाणुरूप एवास्तु, सकलशरीरव्यापि-. मुखदुःखाननुभवप्रसङ्गात् । परमाणुरूपवज् ज्ञानादेस्तद्धर्मस्याप्रत्यक्षत्वापतेश्च । स च प्रतिशरीरं भिन्नः सुखदुःखाद्ययोगपद्यावचिच्याच्च । अन्यथा परकीयसुखदुःखानुसन्धानप्रसङ्गाच्च हस्तपादादिभेदस्येव शरीरभेदस्याप्रयोजकतयाननुसन्धाना: ऽप्रयोजकत्वात् जातिस्मराणां जन्मान्तरीयार्थस्मरणानापत्तश्चेति दिक् । दुःखासमानाधिकरणज्ञानवाभित्यज्ञानाश्रयो वाई. श्वरः। स च सकलकार्यकर्तृत्वेन सिद्धचतीति वक्ष्यते ॥ ... आत्मतद्गुणादिप्रत्यक्षकरणं मनः ॥..... . तच्च परमाणुगरिमाणं प्रतिपुरुषं भिन्नं यत्रयन्द्रिये संमुज्यते ततस्ततो ज्ञानमुत्पयते । अतो युगपदने केन्द्रियैर्ज्ञानाभावोपपत्तिः । अन्यथा युगपवूपशब्दादिग्रहणापत्ती व्यासान ज्ञातमित्यनुभवानापत्तेः । तथा च गौतमसूत्रं . "युगपजज्ञानानुन पतिर्मनसो लिङ्ग" मिति । अत एव मनो विभुः निःस्पर्शद्रव्यत्वात् आकाशवदिति मीमांसकोक्तमपास्तम् । अवधानिनां तु अभ्यासविशेषापेरगया झटिति मनास क्रियया तत्तदिन्द्रियैर्योगाजज्ञानक्रमिकवेपि योगपघाभिमानमात्रम् ॥ ___ नन्वन्धकारोपि नि:स्पर्शवस्वात् क्रियावत्वादिलक्षणरूपवत्त्वाच्च पृथिव्यादिभ्यो भित्रं दशमं द्रव्यमस्तीति कथं नवैव द्रव्याणि इति चेत् । मैवम् । सस्य रूपबद्र्व्यत्वे चक्षुषा ग्रहणं न स्यात् । द्रव्यचाक्षुषमात्रे उद्भूतानभिभूतरूपवदालोकसंयोगः स्य हेतुत्वात् । न च चक्षुर्गोलकवृत्तितामसेन्द्रियान्तरादन्धकारप्रहः । इन्द्रियान्तरकल्पने गौरवात् । किं चान्धकारसमनियत आलोकाभावो ऽवश्यमभ्युपेयः । तथा च तेनैवारोपितनीलरू. पेणान्धकार इति व्यवहारसम्भवान द्रव्यान्तरं तमः । अति
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy