SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः। ३२५ भावानामनादिब्रह्मशाश्वतमिति वाक्यपदीयेपि । तदेतन्मनसि निधायाह । इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम् । ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ॥ ७४ ॥ नामरूपे व्याकरणवाणीति श्रुतिप्रसिद्धा द्वयी सृष्टिः तत्र रूपस्येव नाम्नोपि तदेवतत्त्वं, जन्ममरणादिकं तद्वत्मपं. चश्च तत्राविद्या कल्पितइति वेदान्ततत्त्वमस्मा कमपीष्टमेव । उक्तंहि वाक्यपदीये । “मजन्मनि तथा नित्ये पौर्वापर्यवि. वर्जिते । तत्त्वे जन्मादिरूपत्वं विरुद्धमुपलभ्यते" इति । तस्मादविद्यादशायामुक्तरीत्या जातिरेव स्फोटः । निष्कर्षे तु ब्रह्मव स्फोट इति भावः । परन्तु अविद्यादशायामपि वर्णानां वाचकत्वमभ्युपेत्य स्फोटखण्डनमयुक्तमिति ध्येम् । ब्रह्मैवेत्यनेनात्राय पुरुषः स्वयं ज्योतिः तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति श्रुतिसिद्धं स्वपरप्रकाशत्वं सूचयन् स्फुटत्यर्थोस्मादिति स्फोट इति यौगिकं स्फोटशब्दाभिधेयत्वं सूचयतीति सिद्धम्॥७४॥ विद्याधीशवढेरुसंज्ञकमतिश्रीमाध्वभट्टारकं जित्वा केवलवङ्कटय्यसविधेप्यान्दोलिकां प्राप्तवान् । यश्चक्रे मुनिवर्यसूत्रविवृति सिद्धान्तभङ्गन्तथा माध्वानां तमहं गुरूपम गुरुं रणोजिभट्ट भजे ॥१॥ पाणिनीयवचसां खलु मूलं चन्द्रशेखरभवानिनिरूढम् ॥ तेन भूषणमिदं हि तवैव प्रीतये भवतु साम्बशिवस्य ॥ ३॥ इति श्रीमदत्पदवाक्यप्रमाणपारावारीणधूरीणरङ्गोजी. भट्टात्मजकोण्ड भट्टकते वैयाकरणभूषणे चरमः स्फोटः समाप्तः ॥
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy