SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४६ वैपाकरणभूषणे छेत्युच्यते । तथा च तावत्कालमन्तराज्ञानाद्यावश्यकतया ज्ञानान्तरमपेक्ष्येदमेव करम्यते इति क्व गौरवामिति हि वदन्ति । ननु तवापि बोधकत्वरूपशक्त्यन्तरकल्पनागौरवं स्यादिति चे. मैवम् । गङ्गापदात्तीरोपस्थिती तत्र तद्बोधकत्वस्यावश्यकल्प्यत्वात् । किं च गङ्गापदं तीरे शक्तमिति ज्ञाने सति विना लक्ष: णाज्ञानं ततस्तीरोपस्थितिः सर्वसिद्धा । न चात्र तद्भमः । पदतदर्थघटितशक्तेमासम्भवात् । तस्माल्लाक्षणिके शक्तिस्वीकार आवश्यकः। एतेन शक्यसम्बन्धरूपा लक्षणा क्लृप्ता, तस्यां सम्बन्ध्यन्तरबोधजनकत्वमप्येकसम्बन्धीति न्यायात् क्लृप्तम् । तज्जन्यस्मृतेः शाब्दबोधोपयोगित्वमात्रं कल्प्यते त्वया तु श. क्तिवर्मी कल्पनीय इति गौरवम् । किं च । गङ्गापदजा तीरस्मृतिः शाब्दबोधोपयोगिनीति तवापि मतम् । तज्जनकत्वं शक्यसम्बन्धस्यैव कल्प्यते क्लप्तत्वात् । न च क्लप्सशक्तरिति निरस्तम् । उक्तरीत्या शक्तेरापि तत्रतत्र क्लप्तत्वात् । कार्यकारणभावकल्पनागौरवाच । यदि च शक्तिप्रयोज्यैवोपस्थितिहेतुरिति न लक्षणाज्ञानकार्यकारणभावान्तरं कल्प्यतइत्युच्यते तदा भवः तैव लक्षणा निरस्तेति सिद्ध नः समीहितम् । नहि शक्यसम्ब. न्धमेव लक्षणाखण्डकः खण्ड यति, न वा तस्य सम्बन्धत्वम् । किं तु पदपदार्थसम्बन्धत्वं तज्ज्ञानकार्यकारणभावं चेत्याद्यवधेयम् । ननु लक्षणाया अकल्पने सर्वेषां पदानां नानार्थत्वादक्षादि. पदवदर्थसन्देहः स्यात् । किं च । एवं हि लक्षणायां सर्वसि. द्धानुपपत्तिज्ञानवैयर्थ्यम् । अन्यायश्चानेकार्थत्वमिति न्यायविरोधश्चति चेन्न । यस्य नानार्थत्वज्ञानं नास्ति न तस्य सः । अपरस्य संशय इष्ट एव । अत एवाक्षादिपदस्थळे एकत्रैव श.. क्तिग्रहवतो न सन्देहः । अत एव गङ्गापदं तीरशक्तमिति व्यव
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy