SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । शकल्पनान्यायेन शास्त्रमवृत्तिः प्रकृत्यादिकल्पनयेत्युच्यते । स. मर्थः पदविधिः सहसुपेत्याद्यपि शास्त्रान्तर्गतत्वात्तद्दशायामवेति कथमखण्डमभ्युपेत्य प्रवर्तताम् । तस्मानाखण्डपक्षाश्रयणेन प्रथमः पक्ष इति स्यादेव तत्रापि जहदजहद्विचारप्रवृत्तिः । एतेन यद्यपि शब्दान्तरमेव वृत्तिरवयवा वर्णवदनर्थकास्तथापि सा. दृश्यात्तत्वाध्यवसानं पदानामाश्रित्य पृथगर्यानामेका भाव इ. त्युक्तमिति पूर्वमुदाहृतभाष्यावतारः कैयटोक्तो विद्वद्भिर्नादरणीयः । अपि चोक्तरीत्या समासवद्वाक्येप्येकार्थीभावाभ्युपगमे व्यपेक्षायां सामर्थे परिभाषायां च सत्यां यावान् व्याकरणे पदगन्धो नाम स सर्वः संगृहीतः समासस्त्वेको ऽसंगृहीतः ।। एका भावसामर्थे च समासस्त्वेक एव संगृहीत इति भाण्य. म् । समासएवैकार्थीभावो ऽन्यत्र व्यपेक्षेति स्ववचनं च विरुद्धं स्यात् । वृत्ताविव वाक्यपि विशेषणयोगानापत्तेश्च । एतेन समासादौ व्यपेक्षका भावयोः समुच्चयोपि हरदत्तोक्तो ऽपा. स्तः। किं च । जहत्स्वार्थाजहत्स्वार्थयोः समुच्चयोपि विकल्पमुखेनैव भाष्ये पक्षद्वयावतारात्तद्विरोधाचादरणीयः । अपि च हरदत्तपक्षे राजपुरुषयोरप्युभयार्थत्वकल्पना व्यर्था । विशेषणान्वयनिरासस्य राजपदे तथाकल्पनेनैव वारणात् । राजपुरुषो देवदत्तस्य चेति वारणार्थ तथा कल्प्यतइति चेन । एवमपि राजपुरुषो गौर इत्यादिवत्तथा प्रयोगापत्तेर्दष्परिहरत्वात् । अन्यथा राजपुरुषो गौर इतिवद्गौरस्य राजपुरुष इत्यपि स्यात् । भेदः संसर्ग इत्यादिना मूलएव निरसिष्यमाणत्वाच्च । तथा च न पुरुषपदस्योभयार्थतोक्तियुक्ता । नापि राजपदमात्रस्योति कैयटोक्तिरपि तथा । एकार्थीभावस्य पूर्वपदमात्रनिष्ठतापत्तेः समासनिष्ठतानापत्तेः । समासत्वस्य व्यासज्यवृत्तित्वात् । उ
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy