________________
१३०
वैयाकरणभूषणे
प्रयोग इति चेत् । चैत्रस्तण्डुलं पचतीत्ययमेव । अथ वा, परंसमवेतत्वस्य शक्यत्वेपि चैत्रः स्वात्मानमित्यत्र बाघान्नैतस्यान्व - योस्तु | अन्यांशमादाय तवाप्यन्वयबोधः किं न स्यात् । श्येनेनाभिचरन् यजेतेत्यादिवदिष्टापत्तौ च गतं शक्यत्वेन । अत एव तत्त्वज्ञानान्निःश्रेयसाधिगम इति न्यायसूत्रे कारणत्वार्थकपञ्चम्या नियतपूर्ववत्तित्वमात्रं योग्यताबलाद्बोध्यतइति न्यायतात्पर्यटीकायां प्रपञ्चितं सङ्गच्छते । यद्वा परसमवेतत्वस्य शक्यत्वेपि परत्वस्य केवलान्वयितया आवश्यके कार्यकारणभावान्तरे द्वितीयार्थफलमकारकबोधं प्रति द्वितीयान्तार्थावृत्तिस्तदन्यवृत्तिर्वा यो व्यापारस्तदुपस्थितिर्विषयतया हेतुरिति कार्यकारणभाव एवोच्यताम् । कुतः परसमवेतत्वमपि तदर्थः कल्प्यते । उभयकल्पने 1 गौरवतरत्वात् । परसमवेतत्वस्यान्यत्रान्वयवारणाय कार्यका रणभावान्तर कल्पनेतिगौरवाच । न च चैत्रमैत्रौ परस्परं गच्छत इत्यत्र व्यापारस्य द्वितीयान्तार्थवृत्तित्वाद्वयभिचा रः । द्वितीयान्तार्थवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकण्यापारोपस्थितोर्विवक्षितत्वात् । परस्परव्यापारेपि परस्परवृत्तिभेदप्रतियोगितावच्छेदकत्वाबाधान्न दोषः । परसमवेतत्वे शक्तिग्रहशून्यस्य देवदत्तः स्वात्मानं गच्छतीत्यत्रापि बोभान्नैवं कार्यकारणभाव इति चेत्, प्रस्थितं ताईं तच्छक्यत्वेन । कृष्णः स्वात्मानं गच्छतीत्यत्र बोधस्येष्टत्वात् । परसमवेतत्वशक्तिग्रहवतस्त्वनन्वयादेव बोधासम्भवात् । नहि घटपदस्य पटे शक्तिग्रहवतः पटवोधाद् घटपदं पटे शक्तं भवति । तादृशस्य साधुत्वं स्यादिति चेन्न । प्रानिरासात् । संज्ञयोर्वाध्यबाधकभावस्य प्रागभिधानात् । नहि परसमवेतक्रियाजन्यधात्वर्थतावच्छेदकफलशालित्वं परिष्कृतमपि द्वितीयोत्पत्तौ तत्सा